IJ
IJCRM
International Journal of Contemporary Research in Multidisciplinary
ISSN: 2583-7397
Open Access • Peer Reviewed
Impact Factor: 5.67

International Journal of Contemporary Research In Multidisciplinary, 2026;5(3):1324-1326

आचार्यसूर्यमणिरथविरचिते काश्मीरोदयखण्डकाव्ये काश्मीरस्य सौन्दर्यवर्णनम्।

Author Name: सुरजविश्वालः;  

1. राष्ट्रियसंस्कृतविश्वविद्यालयः तिरूपति, आन्ध्रप्रदेशः, भारतम्।

Paper Type: review paper
Article Information
Paper Received on: 2026-05-11
Paper Accepted on: 2026-06-25
Paper Published on: 2026-06-30
Abstract:

संस्कृतसाहित्यमत्यन्तं व्यापकम् ।मानवसभ्यतायाः सर्वाणि उपादेयोपादानानि  अत्र सन्निवेशितानि । आदौ वेदानां रचना जाता तदनन्तरञ्च तद्व्याख्यानभूता ब्राह्मणग्रन्थाः अरच्यन्त, ब्राह्मणग्रन्थेभ्यः पश्चादारण्यकानि  विरचितानि ,तदनन्तरमुपनिषदः ततो पुराणानि, रामायणं महाभारतं च। सेयं परम्परा सातत्येन कियता स्वरूपविपर्येण सह काव्य-नाटक-गद्य-चम्पू-कथा-स्मृति-तन्त्रादि-निर्माणविधया चिरमन्ववर्तत।

 प्रत्येकदेशस्य संस्कृतिः सभ्यता च साहित्ये एव प्रत्युद्भासितं भवति । देशसंस्कृतेः उत्थानपतने   परिवर्तनपरिवर्धने वा तत्साहित्ये एव दृश्यते। तथैव भारतदेशस्य समस्तसंस्कृतिः संस्कृतसाहित्ये लभ्यते। भारतदेशस्य आत्मा संस्कृतसाहित्ये एव वसति । जातेः गुणशीलनिर्माणविषये संस्कृतसाहित्यस्य प्रथमं स्थानं वर्तते। तपः, त्यागः, उदारता, आशावादः, सर्वसमानत्वमित्यादि विषयान् संस्कृतसाहित्यमेव बोधयति। संस्कृतसहित्यं प्रधानतया द्विधा विभक्तुं शक्यते- वैदिकसाहित्यम्, लौकिकसाहित्यञ्चेति ।

सस्कृतसाहित्ये वेदानां स्थानं सर्वोपरि वर्त्तते। अखिलभूमण्डलेऽस्मिन् समुपलब्धेषु विविधभाषागतप्राचीन ग्रन्थेषु वेदः सर्वेभ्यः प्राचीनतमः इति सवैरेव अङ्गीक्रियते। वैदिकवाङ्मये वेदाः संहिता, ब्राह्मणम्, आरण्यकम्, उपनिषदः इत्यादिभेदैः तानि प्रतिभिद्यते ।

वैदिककालादारभ्य साम्प्रतिकालापर्यन्तं सर्वे भारतीयशास्त्रकारा आत्यन्तिकशान्तिं कामयमानास्तदधिगतये यत्नशीला दृश्यन्ते। तदर्थं नानाशास्त्राणि प्रणीतानि नानोपाया अपि परिकल्पिताः, शान्तिस्वरूपस्य परमात्मनः सकाशादेव जातस्य जीवात्मनोपि शान्तिरूपत्वात् स सर्वदैव तत्स्वरूपेऽवस्थातुमीहते।लौकिकवाङ्मये महाभारतरामायणादयः, कालिदासादीनां महाकवीनां काव्य- खण्डकाव्य-रूपकालङ्कारशास्त्राणि विलसन्ति। एतेषु त्रिषु लौकिकसाहित्यस्यापि नितराम् आदरः विद्यते।

Keywords:

काश्मीरोदयखण्डकाव्यम्, आचार्यसूर्यमणिरथः, काश्मीरसौन्दर्यम्, प्रकृतिवर्णनम्, संस्कृतखण्डकाव्यम्

How to Cite this Article:

सुरजविश्वालः. आचार्यसूर्यमणिरथविरचिते काश्मीरोदयखण्डकाव्ये काश्मीरस्य सौन्दर्यवर्णनम्।. International Journal of Contemporary Research in Multidisciplinary. 2026: 5(3):1324-1326


Download PDF