IJ
IJCRM
International Journal of Contemporary Research in Multidisciplinary
ISSN: 2583-7397
Open Access • Peer Reviewed
Impact Factor: 5.67

International Journal of Contemporary Research In Multidisciplinary, 2026;5(1):33-37

रामदयालुविरचिते सङ्केतनिधौ यात्रासम्बन्धप्रश्नविचार:

Author Name: लक्ष्मीकान्तनायकः;  

1. शोधछात्र, ज्योतिषवास्तुविभागः, रा.सं. विश्वविद्यालयः, तिरुपतिः, आन्ध्रप्रदेशः,भारतम्

Paper Type: review paper
Article Information
Paper Received on: 2025-11-12
Paper Accepted on: 2025-12-26
Paper Published on: 2026-01-09
Abstract:

अस्मिन् शोधनिबन्धे रामदयालुविरचितसङ्केतनिधौ स्थितमूलसिद्धान्तानां, महर्षिबादरायणप्रणीतप्रश्नविद्यायाः, वराहमिहिरकृतदैवज्ञवल्लभायाः, प्रश्नभूषण-प्रश्नशिरोमणि-प्रभृतिग्रन्थानां च मतानि समन्वयपूर्वकं विश्लेषणं कृतम्। यात्रासम्बन्धप्रश्नेषु प्रश्नलग्नस्य चर-स्थिर-द्विस्वभावराशिस्थितिम् आधारभूतत्वं प्रतिपादितम्। चरराशिस्थप्रश्नलग्ने शुभग्रहसंयोगे शुभदृष्टौ च शीघ्रगमनसिद्धिः, स्थिरराशिस्थे गमनाभावः, द्विस्वभावराशिस्थे विलम्बगमनागमनं च शास्त्रसम्मततया विवेचितम्। चन्द्रस्य पूर्णत्वं, बलं, शुभदृष्टिसंयोग इप्सितसिद्धेः प्रमुखं साधनम् इति दर्शितम्। वक्रग्रहस्थितेः यात्रानिषेधः, दुर्धरायोगे गमनागमनप्रतिबन्धकः, शनिगुरुदृष्टिभ्यां स्थिरलग्ने विघ्नोत्पत्तिः च सप्रमाणं प्रतिपादितम्। प्रवासिनः मार्गे सम्भाव्यमानरोगभयकष्टादियोगाः, प्रत्यागमनकालनिर्णयस्य विविधपद्धतयः, शत्रोः प्रवासागमननिर्णयः, दूरदेशगतस्य पुनरागमनलक्षणानि च सूत्रपद्यैः सह विवेचितानि। एवं सर्वेषां तत्त्वानां सम्यगवलोकनेन निष्कर्षोऽयं लभ्यते यत् यात्राप्रश्नेषु निर्णयः केवलं राशिस्थितिमात्रेण न, अपि तु ग्रहबल-दृष्टि-योग-वक्रत्व-कालगणनासमन्वितेन समग्रदृष्टिकोणेन एव करणीयः।

Keywords:

यात्रासम्बन्धसामान्यप्रश्नस्य समाधानम्, गमनागमनस्य शुभाशुभफलम्, गमनागमनस्य प्रतिबन्धकयोगः, पुनर्गमनयोगः, दूरदेशगतः जनः केन प्रकारेण प्रत्यागमिष्यति इति विचारः, प्रवासिनः मार्गे भयरोगादियोगाः, प्रवासिनः प्रत्यावर्तनकालः, शत्रोः गमनागमनयोगनिर्णयः, प्रवासिनः अनिष्टयोगाः, प्रवासिनः अन्यदिग्गमनयोगः, अनुभवसिद्धः आगमनयोगः, प्रवासिनः शुभाशुभम् आगमनं च ज्ञानम्, यात्रालग्नतः आगमनकालनिर्णयः।

How to Cite this Article:

लक्ष्मीकान्तनायकः. रामदयालुविरचिते सङ्केतनिधौ यात्रासम्बन्धप्रश्नविचार:. International Journal of Contemporary Research in Multidisciplinary. 2026: 5(1):33-37


Download PDF