#

International Journal of Contemporary Research in Multidisciplinary

International Journal of Contemporary Research In Multidisciplinary, 2023;2(6):41-43

कवि चूडामणि चक्रवर्तिविरचित वेदस्तुति टीका

Author Name: डॉ नन्दिता मिश्रा

Abstract

भागवतपुराणस्य दशमस्कन्धस्य सप्ताशीतितमे ‘वेदस्तुति’ संाका मात्रकस्मिन अध्याये उपरि अस्ति। कस्यचित् कवेः प्रसिद्धिः किमप्येकमध्याययं ग्रन्थाकारप्रदानमात्रणैव भवति, अतः अस्य ग्रन्थस्य वैशिष्ट्यां ‘वेदस्तुति’ इति ग्रन्थस्य नाममात्रेण प्रसिद्धमेव। भागवतपुराणस्य यावन्तोऽपि टीकाकाराः व्याख्याकाराश्च जाताः ते प्रायः सम्पूर्णभागवतोपरि अथवा पूर्वार्द्धोपरि, उत्तरार्द्धोपरि अथवा दशमस्कन्दधमात्रोपरि स्वव्याख्यां टीकां कृतवन्तः। दशमस्कन्धोपरि सर्वाधिकी टीका विरचिता जाता। किन्तु वेदस्तुतिमात्रोपरि न केनापि टीका कृता। अत अस्याः वैशिष्ट्यां स्वयमेव परिलक्षितं भवति।
      सम्पूर्णाध्याये पञ्चाशत्संख्याकाः श्लोकाः सन्ति। तेषु चतुर्दशादारभ्य एकचत्वारिंशत्पद्यपर्यन्ता अष्टाविंशतिः श्लोका एव वेदस्तुतिनामतः प्रख्यातनर्कुटकच्छन्दसा विनिर्मिता उपलभ्यन्ते। 
पुराणसाहित्ये भागवतपुराणं टीकासम्पत्तिदृष्टया अपि अग्रगण्यमास्ति। इदं यावत् सारगर्भितं प्रमोयबहुलं विद्यते यत् व्याख्यानप्रसादेनैव तस्य गम्भीरार्थे जनाः प्रवेशः प्राप्नोतुं शक्रुवन्ति। अतएवोक्तम्-‘विद्यावतां भागवते परीक्षा’ समस्तवेदानां सारभूततत्त्वं ब्रह्म आत्मैक्यरूप्यं च मुख्य प्रतिपाद्यविषयो वर्तते। कैवल्यमुक्तिरेवास्य एकमात्रं प्रयोजनम्। गम्भीरार्थानां गूढार्थानां च सुबोधाय सरलीकरणाय प्राचीनकालादेव अस्योपरि अनेकटीकाग्रन्थानां रचना जाता। तेषु प्रमुखटीकानां टीकाकाराणाश्च संक्षेपेण निरुपणं मयात्र क्रियते।

Keywords

भागवते परीक्षा, विद्यावतां, कवि चूडामणि, वेदस्तुति