International Journal of Contemporary Research In Multidisciplinary, 2026;5(1):33-37
रामदयालुविरचिते सङ्केतनिधौ यात्रासम्बन्धप्रश्नविचार:
Author Name: लक्ष्मीकान्तनायकः;
Abstract
अस्मिन् शोधनिबन्धे रामदयालुविरचितसङ्केतनिधौ स्थितमूलसिद्धान्तानां, महर्षिबादरायणप्रणीतप्रश्नविद्यायाः, वराहमिहिरकृतदैवज्ञवल्लभायाः, प्रश्नभूषण-प्रश्नशिरोमणि-प्रभृतिग्रन्थानां च मतानि समन्वयपूर्वकं विश्लेषणं कृतम्। यात्रासम्बन्धप्रश्नेषु प्रश्नलग्नस्य चर-स्थिर-द्विस्वभावराशिस्थितिम् आधारभूतत्वं प्रतिपादितम्। चरराशिस्थप्रश्नलग्ने शुभग्रहसंयोगे शुभदृष्टौ च शीघ्रगमनसिद्धिः, स्थिरराशिस्थे गमनाभावः, द्विस्वभावराशिस्थे विलम्बगमनागमनं च शास्त्रसम्मततया विवेचितम्। चन्द्रस्य पूर्णत्वं, बलं, शुभदृष्टिसंयोग इप्सितसिद्धेः प्रमुखं साधनम् इति दर्शितम्। वक्रग्रहस्थितेः यात्रानिषेधः, दुर्धरायोगे गमनागमनप्रतिबन्धकः, शनिगुरुदृष्टिभ्यां स्थिरलग्ने विघ्नोत्पत्तिः च सप्रमाणं प्रतिपादितम्। प्रवासिनः मार्गे सम्भाव्यमानरोगभयकष्टादियोगाः, प्रत्यागमनकालनिर्णयस्य विविधपद्धतयः, शत्रोः प्रवासागमननिर्णयः, दूरदेशगतस्य पुनरागमनलक्षणानि च सूत्रपद्यैः सह विवेचितानि। एवं सर्वेषां तत्त्वानां सम्यगवलोकनेन निष्कर्षोऽयं लभ्यते यत् यात्राप्रश्नेषु निर्णयः केवलं राशिस्थितिमात्रेण न, अपि तु ग्रहबल-दृष्टि-योग-वक्रत्व-कालगणनासमन्वितेन समग्रदृष्टिकोणेन एव करणीयः।
Keywords
यात्रासम्बन्धसामान्यप्रश्नस्य समाधानम्, गमनागमनस्य शुभाशुभफलम्, गमनागमनस्य प्रतिबन्धकयोगः, पुनर्गमनयोगः, दूरदेशगतः जनः केन प्रकारेण प्रत्यागमिष्यति इति विचारः, प्रवासिनः मार्गे भयरोगादियोगाः, प्रवासिनः प्रत्यावर्तनकालः, शत्रोः गमनागमनयोगनिर्णयः, प्रवासिनः अनिष्टयोगाः, प्रवासिनः अन्यदिग्गमनयोगः, अनुभवसिद्धः आगमनयोगः, प्रवासिनः शुभाशुभम् आगमनं च ज्ञानम्, यात्रालग्नतः आगमनकालनिर्णयः।